पद्मनन्दि पंचविंशतिका
(स्त्रग्धरा)
कायोत्सर्गायताङ्गो जयति जिनपतिर्नाभिसूनुर्महात्मा मध्यान्हे यस्य भास्वानुपरि परिगतो राजतेस्मोग्रमूर्तिः चक्रं कर्मेन्धनानामतिबहुदहतो दूरमौदास्यवात- स्फूर्यत्सद्ध्यानवतेरिव रुचिरतरः प्रोद्गतो विस्फुलिङ्गः ॥१॥
नो किञ्चित्करकार्यमस्ति गमनप्राप्यं न किञ्चिदृशो- दृश्यं यस्य न कर्णयोः किमपि हि श्रोतव्यमप्यस्ति न । तेनालम्बितपाणिरुज्झितगतिर्नासाग्रदृष्टी रहः संप्राप्तोऽतिनिराकुलो विजयते ध्यानैकतानो जिनः॥२॥
रागो यस्य न विद्यते क्वचिदपि प्रध्वस्तमोहग्रहा- दस्त्रादेः परिवर्जनान्न च बुधैर्द्वषोऽपि सम्भाव्यते ।
तस्मात्साम्यमथात्मबोधनमतो जातः क्षयः कर्मणा- मानन्दादिगुणाश्रयस्तु नियतं सोऽर्हन् सदा पातु वः ॥३॥
इन्द्रस्य प्रणतस्य शेखरशिखारत्लार्क भासानख- श्रेणीतेक्षणबिम्बशुम्भदलिभृगुरोल्लसत्पाटलम्
श्रीसद्याङ्गियुगं जिनस्य दधदप्यम्भोजसाम्यं रज- स्त्यक्तं जाड्यहरं परं भवतु नश्चेतोऽर्पितं शर्मणे ॥४॥
जयति जगदधीशः शान्तिनाथो यदीयं स्मृतमपि हि जानानां पापतापोपशान्त्यै ।
विबुधकुलकिरीटप्रस्फुरन्नीलरत्न द्युतिचलमधुपालीचुम्बितं पादपद्यम् ॥५॥
स जयति जिनदेवो सर्वविद्विश्वनाथोऽवितथवचनहेतुक्रोधलोभादिमुक्तः ।
शिवपुरपथपांथप्राणिपाथेयमुच्वैर्जनितपरमशर्मा येन धर्मोऽभ्यधायि ॥६॥
(शार्दूलविक्रीडित)
धर्मो जीवदया गृहस्थशमिनो, भेदाद्विधा च त्रयं, रत्नानां परमं तथा दशविधोत्कृष्टक्षमादिस्ततः।
मोहोद्भूतविकल्पजालरहिता, वागङ्गसङ्गोज्झिता, शुद्धानन्दमयात्मनः परिणतिर्धर्माख्यया गीयते ॥७॥
आद्या सव्रतसञ्चयस्य जननी, सौख्यस्य सत्सम्पदां, धर्मतरोरनश्वरपदा, रोहैकनिः श्रेणिका ।
मूलं कार्या सद्भिरिहाङ्गिषु प्रथमतो, नित्यं दया धार्मिकैः धिङ्नामाऽप्यदयस्य तस्य च परं, सर्वत्र शून्या दिशः ॥८॥
संसारे भ्रमतश्विरं तनुभृतः, के के न पित्रादयो, जातास्तद्वधमाश्रितेन खलु ते, सर्वे भवन्त्याहताः ।
नन्वात्मापि हतो यदत्र निहतो, जन्मान्तरेषु ध्रुवं, हन्तारं प्रतिहन्ति हन्त बहुशः, संस्कारतो नु कुधः ॥९॥
त्रैलोक्यप्रभुभावतोऽपि सरुजोऽप्येकं निजं जीवितं, प्रेयस्तेन विना स कस्य भवितेत्याकांक्षतः प्राणिनः । निःशेषव्रतशीलनिर्मलगुणाधारात्ततो निश्चितं, जन्तोर्जीवितदानतस्त्रिभुवने सर्वप्रदानं लघु ॥१०॥
स्वर्गायाऽव्रतिनोऽपि सार्द्रमनसः, श्रेयस्करी केवला, सर्वप्राणिदया तया तु रहितः, पापस्तपस्थोऽपि च।
तद्वानं बहु दीयतां तपसि वा, चेतः स्थिरं धीयतां, ध्यानञ्च क्रियतां जना न सफलं, किञ्चिद्यावर्जितम् ॥११॥
सन्तः सर्वसुरासुरेन्द्रमहितं, मुक्तेः परं कारणं, रत्नानां दधति त्रयं त्रिभुवन, प्रद्योति काये सति ।
वृत्तिस्तस्य यदन्नतः परमया, भक्त्यार्पिताज्जायते तेषां सद्गृहमेधिनां गुणवतां, धर्मो न कस्य प्रियः ॥१२॥
आराध्यन्ते जिनेन्द्रा गुरुषु च विनतिर्धार्मिकैः प्रीतिरुच्चैः, पात्रेभ्यो दानमापन्निहतजनकृते तच्चकारुण्यबुद्ध्या।
तत्त्वाभ्यासः स्वकीयव्रतरतिरमलं दर्शनं यत्र पूज्यं तद्गार्हस्थ्यं बुधानामितरदिह पुनर्दुःखदो मोहपाशः ॥१३॥
श्लोक 14
2 Comments
[…] Home page – पद्मनन्दि पंचविंशतिका Padmanandi Panchvinshatika […]
[…] Home page – पद्मनन्दि पंचविंशतिका Padmanandi Panchvinshatika […]